श्रितकमलाकुचमण्डल धृतकुण्डल ए ।
कलितललितवनमाल जय जयदेव हरे ॥ १॥
दिनमणिमण्डलमण्डन भवखण्डन ए ।
मुनिजनमानसहंस जय जयदेव हरे || २ ||
कालियविषधरभञ्जन जनरञ्जन ए ।
यदुकुलनलिनदिनेश जय जयदेव हरे ॥ ३॥
मधुमुरनरकविनाशन गरुडासन ए ।
सुरकुलकेलिनिदान जय जयदेव हरे ॥ ४॥
अमलकमलदललोचन भवमोचन ए ।
त्रिभुवनभवननिधान जय जयदेव हरे ॥ ५॥
जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशकण्ठ जय जयदेव हरे ॥ ६॥
अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥ ७॥
तव चरणे प्रणता वयं इति भावय ए ।
कुरु कुशलं प्रणतेषु जय जयदेव हरे ॥ ८॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ए ।
मंगल मंजुलगीतं जय जयदेव हरे ॥ ९॥
लेखक – श्री जयदेव गोस्वामी




